मां कालिका शतनाम स्तोत्रम्| Maa Kalika Shatnam Stotra

कालिकाशतनामस्तोत्रम्

ह्रीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ १॥

कालिका कालमाता च कालानलसमद्युतिः ।
कपर्दिनी करालास्या करुणामृतदसागरा ॥ २॥

कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ ३॥

कालरात्रिः कामरूपा कामपाशविमोचिनी ।
कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ ४॥

कुमारीपूजनप्रीता कुमारीपूजकालया ।
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ ५॥

कदम्बवनसञ्चारा कदम्बवनवासिनी ।
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ ६॥

किशोरी कलकण्ठा च कलनादनिनादिनी ।
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ ७॥ 

कपालपात्रनिरता कङ्कालमाल्यधारिनणी ।
कमलासनसन्तुष्टा कमलासनवासिनी ॥ ८॥

कमलालयमध्यस्था कमलामोदमोदिनी ।
कलहंसगरतिः क्लैव्यनाहशिनी कामरूपिणी ॥ ९॥

कामरूपकृतावासा कामपीठविलासिनी ।
कमनीया कल्पलता कमनीयविभूषणा ॥ १०॥

कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ ११॥

कारणानन्दजापेष्टा कारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ १२॥

कस्तूरीसौरभमोदा कस्तूरीतिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ १३॥

कस्तूरीदाहजननी कस्तूरीमृगतोषिनणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ १४॥

कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ।
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ १५॥

कर्पूरसागरस्नाता कर्पूरसागरालया ।
कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ १६॥

कुलीना कौलिकाराध्या कौलिकप्रियकारिनणी ।
कुलाचारा कौतुकिकनी कुलमार्गप्रदर्शिनी ॥ १७॥

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ १८॥

कलमञ्जरीचरणा क्वणत्काञ्चीविभूषणा ।
काञ्चानाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ १९॥

कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्त्तनाशिनी कुलकामिनी ॥ २०॥

इत्द्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ।
ककारकूटघटितं कालीरूपस्वरूपकम् ॥ २२॥

ककारकूटकीर्त्तनफलं –
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ।
मन्त्रसिद्धिर्भवेदषु तस्य काली प्रसीदति ॥ १॥

बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ।
धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ॥ २॥

पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ।
भौमावास्यानिशाभागे मपञ्चकसमन्वितः ॥ ३॥

पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ।
पठित्वा शतनामानि साक्षात्कालीमयो भवेत् ॥ ४॥

नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ।
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ॥ ५॥

समुद्र इव गाम्भीर्ये बले च पवनोपमः ।
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ॥ ६॥

रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः ।
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ॥ ७॥

यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ।
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ॥ ८॥

रणे राजकुले द्यूते विवादे प्राणसङ्कटे ।
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ॥ ९॥

अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ।
ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ॥ १०॥

बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ।
दुस्तरे सलिले वापि पोते वातविपद्गते ॥ ११॥

विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ।
यः पठेच्छतनामानि दृढभक्तिसमन्वितः ॥ १२॥

सर्वापद्भयो विमुच्येत देवि सत्यं न संशयः ।
न पापेभ्यो भयन्तस्य न रोगोभ्यो भयं क्वचित् ॥ १३॥

सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ।
तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ॥ १४॥

स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ।
स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ॥ १५॥

वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ।
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ॥ १६॥

दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ।
आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ॥ १७॥

अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते ।
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ १८॥

शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ।
पठेद्वा पाठयेद्वापि श‍ृणुयाच्छ्रावयेदपि ।
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ १९॥

इति महानिर्वाणतन्त्रे कालिकाशतनामस्तोत्रं सम्पूर्णम् ॥

Scroll to Top